Sunday, January 6, 2019

स्नपनविधि पटलः

अथ स्नपनविधि पटलः
अथातः संप्रवक्ष्यामि स्नपनस्य विधिक्रमम् ।  
पञ्चम्याञ्च नवम्याञ्च चतुर्दश्यान्तु पर्वणोः ॥   १५-१ ॥
संक्रान्तौ विषुवे चैव अयने ग्रहणे तथा ।  
पञ्चम्यादि ग्रहणान्तं दशवृद्ध्युत्तरं वरम् ॥   १५-२ ॥
दीक्षान्ते च प्रतिष्ठान्ते प्रोक्षणे चोत्सवान्तके ।  
यागान्ते च सुनक्षत्रे कृत्तिकादीपकर्मणि ॥   १५-३ ॥
कर्तव्यं जन्मनक्षत्रे मङ्गलेमन्त्रसाधने ।  
राजाभिषेक समये मरणान्तेथZ जन्मनि ॥   १५-४ ॥
अतिवृष्टावनावृष्टौ दुर्भिक्षे दुर्निमित्तके ।  
भूमिकंपे दिशान्दाहे ज्वरमार्यादि पीडने ॥   १५-५ ॥
सर्वरोगसमुत्पन्ने शत्रुभिः पीडनेपि च ।  
प्रायश्चित्तादिकालेषु शिवं संस्नापयेत् गुरुः ॥   १५-६ ॥
नवधा स्नपनं तत्र संक्षेपेण श्रुणु क्रमात् ।  
पञ्चभिः पञ्चभिश्चैव पञ्चविंशतिभिस्तथा ॥   १५-७ ॥
अन्यस्य त्रितयन्त्वेषु श्रुणु मध्यमकत्रयम् ।  
पञ्चाशन्न्यूनमेकन्तु एकाशितिस्ततः परम् ॥   १५-८ ॥ प्. ७७)
शतमष्टोत्तरं ज्ञेयं मध्यमत्रितयं त्विह ।  
षोडशद्विशतञ्चैव अष्टोत्तरशतत्रयम् ॥   १५-९ ॥
अष्टाधिकसहस्रन्तु उत्तमादिशिवाधिकम् ।  
उत्तमं त्रीणिविख्यातं सर्वेषां स्नपनं श्रुणु ॥   १५-१० ॥
प्रासादस्याग्रतः कुर्यात् मण्डपञ्चतुरश्रकम् ।  
विंशश्चतिथि हस्तञ्च भानुदिक्करमेव च ॥   १५-११ ॥
नवाष्ट सप्तषट्पञ्चहस्तैर्नवविधं स्मृतम् ।  
अष्टसाहस्रकं पादं नवानां मण्डपा स्मृताः ॥   १५-१२ ॥
षट्त्रिंशत् गात्रसंयुक्तमुत्तमानां विधीयते ।  
षोडशस्तंभसंयुक्तं मध्यमानान्तु कारयेत् ॥   १५-१३ ॥
द्वादशस्तंभसंयुक्तमधमानां प्रकल्पयेत् ।  
कूटं वा मण्डपं वापि कारयेत् स्वप्रमाणतः ॥   १५-१४ ॥
चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ।  
वितानध्वजसंयुक्तं दर्भमालोपशोभितम् ॥   १५-१५ ॥
वक्ष्यमाणविधानेन कर्तव्यञ्चाङ्कुरार्पणम् ।  
कलशानि ततो ग्राह्य साधयेद् आदिशैवकः ॥   १५-१६ ॥
सौवर्णं रजतं वापि तथा ताम्रमयैरपि ।  
शङ्खैर्वा शुक्तिकैर्वापि गवां श्रुङ्गैरथापि वा ॥   १५-१७ ॥
अथवा मृन्मयैर्वापि सर्वलक्षणसंयुतैः ।  
सुपक्वैः सुस्वरैः स्निग्धैर्बिंब प्रभसमन्वितैः ॥   १५-१८ ॥
एतैर्ल्लक्षणसंयुक्तैः स्नापयेत् परमेश्वरः ।  
उत्तमं द्रोणसंपूर्णं मध्यमन्तु तदर्धकम् ॥   १५-१९ ॥
अधमञ्चाढकं प्रोक्तं सर्वेषामाढकं तु वा ।  
शङ्खशुक्ति विश्रुङ्गाणां स्वप्रमाणेन पूरयेत् ॥   १५-२० ॥
सूत्रेण वेष्टयित्वा तु कालयित्वाधिवासयेत् ।  
गोमयालेपनङ्कृत्वा विष्टसूत्राणि पातयेत् ॥   १५-२१ ॥
सूत्राणाञ्चाप्य धर्मादीन् गात्राणान्धर्मपूर्वकान् ।  
स्थण्डिलन्तत्र कुर्वित् शालिभिर्विमलैस्तथा ॥   १५-२२ ॥
आढकञ्च तदर्धं वा कलशानां पृथक् पृथक् ।  
तदर्धं तण्डुलैर्भूष्य तदर्धन्तिलसंयुतम् ॥   १५-२३ ॥ प्. ७८)
नवधा स्नपनन्तेषु चाद्यसप्तविधिं श्रुणु ।  
मण्डपान्तश्चतुष्पत्र युक्ताब्जं कर्णिकान्वितम् ॥   १५-२४ ॥
पञ्चकुम्भस्य विख्यातं महादिदलशोभितम् ।  
प्रागुदक्भ्यां चतुःसूत्रं मार्गैर्न्नवपदं विदुः ॥   १५-२५ ॥
अष्टसूत्रं समङ्कृत्वा प्राङ्मुखोदङ्मुखं क्रमात् ।  
मध्ये नवपदं ग्राह्यं बहिरेका वृतिन्त्यज्येत् ॥   १५-२६ ॥
ऐन्द्रादिषु चतुर्दिक्षु पदमेकं परिग्रहेत् ।  
अग्नेय्यादीशपर्यन्तन्तिसृभिस्त्रिः पदं भवेत् ॥   १५-२७ ॥
महादिक्पदपार्श्वाभ्यां द्वारार्थं द्विपदं त्यजेत् ।  
पञ्चविंशत्पदङ्कृत्वा स्थापयेदधमत्रयम् ॥   १५-२८ ॥
पादानान्तालमात्रं स्यात् सूत्रद्वादशकल्पितम् ।  
उदक्सूत्रं तथा कल्प्य ह्यष्टद्वाराणि योजयेत् ॥   १५-२९ ॥
मध्यमे पञ्चविंशच्च द्विपदंत्वावृतं त्यजेत् ।  
पञ्चत्रिंशत्पदं कृत्वा तेष्वेकं गृह्ययत्नतः ॥   १५-३० ॥
इदमेकोन पञ्चाशदेकाशीति पदं श्रुणु ।  
पदमेकं समावृत्त्य द्वारादिषु पदा त्यजेत् ॥   १५-३१ ॥
एकाशीति पदं ह्येवं मध्यमान्मध्यमं श्रुणु ।  
प्रागग्रं षोडशं सूत्रमुदगग्रं तथैव च ॥   १५-३२ ॥
पञ्चविंशत् पदन्तेषु मध्यसङ्ग्राह्ययत्नतः ।  
विदिक्षुनवकङ्ग्राह्यं द्वारत्वात् द्विपदं त्यज्येत् ॥   १५-३३ ॥
चतुर्दिक् तिथिकोष्ठेषु तृतीये सन्त्यजेत् त्रयम् ।  
एवङ्कृते पदा सम्यक् शिवाधिक्यं शताष्टकम् ॥   १५-३४ ॥
विंशत् सूत्रं प्रकर्तव्यं प्राङ्मुखोदङ्मुखं क्रमात् ।  
तन्मध्ये पञ्चविंशच्च संग्राह्य परितोद्वयम् ॥   १५-३५ ॥
त्यजेत् द्वाराष्टकोपेतं गोमयेन तु वारिणा ।  
दिशश्च विदिशश्चैव पञ्चविंशत् पदं क्रमात् ॥   १५-३६ ॥
मध्यमव्यूहमध्यस्थं नवन्त्यक्वाब्जमालिखेत् ।  
एवङ्कुर्याद् विधानज्ञः षोडशद्विशतं भवेत् ॥   १५-३७ ॥
नवधा स्नपनं प्रोक्तं तेषां द्रव्यन्ततः श्रुणु ।  
वज्रं मरतकञ्चैव वैडूर्यञ्च प्रवालकम् ॥   १५-३८ ॥ प्. ७९)
मौक्तिकं पञ्चरत्नानि शिवकुंभे तु विन्यसेत् ।  
रत्नाभावे ततो हेमं नवानां हेममेव च ॥   १५-३९ ॥
पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् ।  
क्षीरं दधिघृतञ्चैव प्रथमावरणं विदुः ॥   १५-४० ॥
प्रस्थपादं घृतं प्रोक्तं द्विपादन्दधिरुच्यते ।  
त्रिपादं क्षीरमित्युक्तं प्रस्थञ्चैव तु गोमयम् ॥   १५-४१ ॥
षट्गुणञ्चैव गोमूत्रं पञ्चगव्यमिति स्मृतम् ।  
मधु इक्षुरसञ्चैव पनसाम्रफलौ तथा ॥   १५-४२ ॥
कदली नालिकेरौ च सर्षपञ्च तिलं तथा ।  
विल्वञ्चमातुदॄङ्गञ्च नारङ्गद्वयमेव च ॥   १५-४३ ॥
यवनीवारलाजञ्च तस्य चूर्णङ्गुलन्तथा ।  
चन्दनं लघुकुष्ठौ च कच्चोलं पुष्पपत्रकम् ॥   १५-४४ ॥
कर्पूरं हिमबेरञ्च जटामांसिमुरन्त्रणम् ।  
शमीदूर्वा च श्वेतार्कं बिल्वपत्रञ्च चंपकम् ॥   १५-४५ ॥
शङ्खपुष्पंत्वपामार्गं विष्णुक्रान्ति च धुर्तुरम् ।  
नन्द्यावर्तं श्वेतपद्मं पुन्नागञ्चातिपाटलि ॥   १५-४६ ॥
सहदेवी शतपत्री लक्ष्मीस्थलारविन्दकम् ।  
धातकीतुलसी चैव करवीराकृष्णमल्लिका ॥   १५-४७ ॥
मल्लिका च शतावेरी गोक्षुराज कृताञ्जली ।  
महाद्रोणञ्च द्रोणञ्च भद्री च मधुमद्रिका ॥   १५-४८ ॥
इन्द्रवल्लीरुद्रपाणी धात्री चैव हरिद्रकी ।  
व्याघ्र नवी च माञ्जिष्ठी सरलं भद्रकाषुकम् ॥   १५-४९ ॥
नवनीतं द्राविलञ्च सज्जन्तक्कोलमेव च ।  
बलाचातिबला चैव सिंही प्रियङ्गुलोद्धृता ॥   १५-५० ॥
नागकेसरजंबूका कपित्थाश्वत्थ गुग्गुदॄ ।  
एला च जीरकञ्चैव कृष्णजीरकमेव च ॥   १५-५१ ॥
सुतैलं कुङ्कुमं मेघमगरुङ्कृष्णलोचना ।  
श्रीवेष्टकं गन्धरसं पिप्पलीहस्तपिप्पली ॥   १५-५२ ॥
कृष्णागरुञ्चतगरं मनःशिलारक्तचन्दनम् ।  
लवङ्गं रजनी चूर्णं कषायं मार्जनान्तकम् ॥   १५-५३ ॥ प्. ८०)
पिप्पलोदुंबर प्लक्ष वटत्वग्भिः कषायकम् ।  
द्रव्यं तिलकुशाग्राणि तथा मार्जव्यमादिशेत् ॥   १५-५४ ॥
द्रव्याण्येतानि चोक्तानि द्विविधं स्नानमार्जनम् ।  
रसद्रव्याणि सर्वाणि स्नानद्रव्याणि संविदुः ॥   १५-५५ ॥
फलचूर्णौषधीत्यादि मार्जनद्रव्यकाणिते ।  
रसादन्यानि सर्वाणि तोयैःसंपूरयेत् सुधीः ॥   १५-५६ ॥
रसाश्च पञ्चगव्याक्ताः पञ्चकुम्भेषु कीर्तिताः ।  
आज्यान्ता नवकुम्भानां वत्वन्ताः पञ्चकुम्भके ॥   १५-५७ ॥
गुलादिपुन्नागान्ताश्च चत्वारिंशन्नवाधिके ।  
द्रव्यादिजात्यलान्ताश्च एकाशीतिर्विशेषतः ॥   १५-५८ ॥
पाद्यादिमार्जनान्तास्तु अष्टोत्तरं शतं भवेत् ।  
अधर्माद्यादि * * * दिग्विदिग्व्यूह संज्ञकाः ॥   १५-५९ ॥
मध्यमस्य शिवव्यूहो नवव्यूहा प्रकीर्तिताः ।  
गन्धपुष्पादिनाभ्यर्च्य दर्भैश्चैव परिस्तरेत् ॥   १५-६० ॥
मध्यमे शिवकुम्भन्तु शिवमन्त्रेण विन्यसेत् ।  
द्वात्रिंशद् वा चतुर्विंशत् षोडशप्रस्थपूरितः ॥   १५-६१ ॥
शिवकुम्भमिदं प्रोक्तं वर्धन्यास्तु तदर्धकम् ।  
पञ्चरत्नसमायुक्तं सकूर्चं वस्त्रवेष्टितम् ॥   १५-६२ ॥
शिवव्यूहस्य मध्ये तु विन्यस्य शिवकुम्भकम् ।  
तस्य व्यूहस्य सुम्ये तु तन्मध्ये वा शिवोत्तरे ॥   १५-६३ ॥
सकूर्चां वस्त्रसंयुक्तां वर्धनीं हेमसंयुताम् ।  
मनोन्मनीन्तु संस्थाप्य बीजमन्त्रमनुस्मरन् ॥   १५-६४ ॥
गन्धपुष्पादिभिः पूज्य हृदयेन विचक्षणः ।  
पाद्यारभ्य घृतान्तानामष्ट विद्येश्वराधिपाः ॥   १५-६५ ॥
मध्वादिमार्जनान्तानां शतरुद्राधिदैवताः ।  
एकैकमर्चयेत्  सर्वानेकैकं वस्त्रकं ददेत् ॥   १५-६६ ॥
स्वस्वनाम चतुर्थ्यन्तैर्गन्धपुष्पादिभिर्यजेत् ।  
षोडश द्विशतञ्चैव पूर्ववत् स्थापयेत् क्रमात् ॥   १५-६७ ॥
पूर्वोक्तानीहद्रव्याणि प्रधानानि सुकीर्तिताः ।  
उशीरागरुकर्पूर चन्दनैश्च सुपुष्पितम् ॥   १५-६८ ॥ प्. ८१)
शुद्धतो येन सम्मिश्रमुपस्नानोदकं स्मृतम् ।  
उपस्नानानि तत् सङ्ख्या सप्ततीर्थानि यानि तु ॥   १५-६९ ॥
अधमाधममारभ्य उत्तमादधमान्तकम् ।  
उक्तं सर्वं विशेषेण देवता द्रव्यसंयुतम् ॥   १५-७० ॥
उत्तमान्मध्यमञ्चैव उत्तमोत्तममेव च ।  
स्नपनञ्चैव द्रव्यांश्च किञ्चित् भेदं गजानन ॥   १५-७१ ॥
षट्सूत्रं प्राङ्मुखं तत्र उदक्सूत्रकमेव च ।  
पञ्चतालप्रमाणेन पदवीसारविस्मृता ॥   १५-७२ ॥
अतः परं समावृत्य पदमष्टौ परित्यजेत् ।  
चत्वारिवीधयः प्रोक्ता महादिक्षु चतुष्पदाः ॥   १५-७३ ॥
द्वादशानि पदानिह चतुष्कोणेषु सङ्ग्रहेत् ।  
तेषु द्वादशकोष्ठेषु प्रत्येकं पञ्चविंशतिः ॥   १५-७४ ॥
मध्यव्यूहविशेषेण कृत्वा नवपदन्ततः ।  
षडावरणमार्गेण स्थापयेत् स्थापकोत्तमः ॥   १५-७५ ॥
स्थापयेन्मध्यतो व्यूहे नवकुम्भानि पूर्ववत् ।  
वर्धनीं तस्य वामे तु प्राग्वत्संस्कृत्य मन्त्रवित् ॥   १५-७६ ॥
पञ्चपङ्क्तिक्रमं वक्ष्ये पञ्चमावरणान्तिकम् ।  
प्रथमे चैव बीजानि लोहान्येव द्वितीयके ॥   १५-७७ ॥
तृतीये चैव रत्नानि धातूंश्चैव चतुर्थके ।  
पञ्चमे पञ्चगव्यन्तु त्रिशदष्टोत्तरं त्विदम् ॥   १५-७८ ॥
यवनीवारमुद्गांश्च तिलं सर्षपमेव च ।  
श्वेतशाली महाशाली रक्तशाली तथैव च ॥   १५-७९ ॥
सौगन्धी हेमशाली च दशबीजमिति स्मृतम् ।  
द्वाविंशत् कलशेपूर्य प्रथमावरणे न्यसेत् ॥   १५-८० ॥
उपस्नानादिनीतानि तावत् सङ्ख्यानि विन्यसेत् ।  
चत्वारिंशच्च चत्वारि कलशानि समन्ततः ॥   १५-८१ ॥
अर्चयित्वा विधानेन बीजमन्त्रमनुस्मरन् ।  
प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रुणु ॥   १५-८१ ॥
चामीकरं तथा हेमं शातकुम्भमतः परम् ।  
जांबूनदञ्च तप्तञ्च जाति सप्तादिमिश्रितम् ॥   १५-८२ ॥ प्. ८२)
षड्विंशत् कलशे सूत्रमुदकैस्सहविन्यसेत् ।  
तावत् सङ्ख्या भवेत् तेषु कलशेष्वन्तणोदकम् ॥   १५-८३ ॥
कलशानि द्विपञ्चाशच्चतुष्कोणेषु चैव हि ।  
द्वितीयावरणे न्यस्त्वा ब्रह्ममन्त्रैश्च देशिकः ॥   १५-८४ ॥
द्वितीयावरणं प्रोक्तं तृतीयावरणं श्रुणु ।  
पद्मरागञ्च वैडूर्यं वज्रं पुष्यन्तथैव च ॥   १५-८५ ॥
स्फटिकं मौक्तिकं निलमिन्द्रनीलं प्रवालकम् ।  
एतेषु नवरत्नांबु त्रिंशत् सुकलशेषु वै ॥   १५-८६ ॥
तावत् सङ्ख्या भवेत् तानि कलशेष्वन्तरोदकम् ।  
कलशानि भवेत् षष्टिश्चार्चयित्वाङ्ग विद्यया ॥   १५-८७ ॥
तृतीयावरणं प्रोक्तञ्चतुर्थावरणं श्रुणु ।  
हरितालं तथा माञ्जिमञ्जनञ्च मनःशिला ॥   १५-८८ ॥
रोध्रञ्च सीसकञ्चैव गैरिकन्तु ततः परम् ।  
चतुस्त्रींशत्सुकुम्भेषु सप्तधात्वंबुना सह ॥   १५-८९ ॥
तावत् ग्राह्यो भवेत्तानि कलशेष्वन्तरोदकम् ।  
अष्टोत्तरं तथा षष्टिः कलशानां विशेषतः ॥   १५-९० ॥
प्रत्येकमर्चयेत्तानि विद्यांगैश्च विशेषतः ।  
पञ्चमावरणे पञ्चगव्याधानमतः श्रुणु ॥   १५-९१ ॥
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ।  
गोमूत्रादिषडेतैस्तु अष्टत्रिंशत् घटे न्यसेत् ॥   १५-९२ ॥
विन्यसेत् ब्रह्मपञ्चानामष्टत्रिंशत् कला क्रमात् ।  
यावत् सङ्ख्या भवेत्तानि प्रत्येकञ्चान्तरोदकम् ॥   १५-९३ ॥
द्रव्यान् कुम्भेषु संयोज्य शतरुद्रान्विशेषतः ।  
शतत्रयेषु कुंभेषु विन्यसेत् तु पृथक् पृथक् ॥   १५-९४ ॥
संस्नाप्याभ्यर्च्य विधिना स्वैस्वैर्नामभिरेव च ।  
त्रिशताष्टममेवोक्तमुत्तमस्योत्तमं श्रुणु ॥   १५-९५ ॥
प्रागग्रं द्वादशं सूत्रं उदगग्रं तथैव च ।  
एकविंशच्छतं कृत्वा पदन्तत्र विनायक ॥   १५-९६ ॥
चतुष्कोणेषु मतिमांश्चतुःसूत्राणि विन्यसेत् ।  
आग्नेयादिसमारभ्य पदैकान्तरितं यथा ॥   १५-९७ ॥ प्. ८३)
षट्त्रिंशत् गात्रसंयुक्तं गात्रस्थाना वृतन्त्यजेत् ।  
द्वारे द्वेद्वेपदन्त्यक्त्वा चत्वारिंशत् पदं स्थितम् ॥   १५-९८ ॥
तेषां मध्यमकोष्ठन्तु कृत्वा नवपदन्ततः ।  
एकैकं पदमध्ये तु पञ्चविंशति सङ्ख्यया ॥   १५-९९ ॥
कलशानि ततोप्यष्ट सहस्रैकादशावृतौ ।  
विद्येशोमा शिवाख्यांश्च कुम्भान्विन्यस्य पूर्ववत् ॥   १५-१०० ॥
विद्येशावरणन्त्यक्त्वा तच्छृणुष्वदशावृतान् ।  
प्रथमे चैव बीजानि लोहान्येव द्वितीयके ॥   १५-१०१ ॥
तृतीये चैव रत्नानि धातूंश्चैव चतुर्थके ।  
पञ्चमे पञ्चगव्यानि षष्ठे चैव फलोदकान् ॥   १५-१०२ ॥
गन्धाश्चौषधयस्सर्वे सप्तमे च तथा भवेत् ।  
अष्ट मृच्चाष्टमे चैव कषाया नवमावृतौ ॥   १५-१०३ ॥
दशमे चैव पुष्पाणि एकैकन्तु श्रुणु क्रमात् ।  
बीजानि पञ्चगव्यान्तं पूर्ववत् स्थापयेत् बुधः ॥   १५-१०४ ॥
पञ्चमावरणं प्रोक्तं षष्ठमावरणं श्रुणु ।  
कदली बिल्वचूतांश्च मातुदॄङ्गञ्च डाडिमी ॥   १५-१०५ ॥
नालिकेरञ्च नारङ्गं लिकुचंपनसं तथा ।  
फलोदकानि तानीहद्वेषष्टीत्यभीधीयते ॥   १५-१०६ ॥
प्रत्येकं विन्यसेत् तानि कलशेष्वन्तरोदकम् ।  
कलशानि शतानीह चतुर्विंशति चोत्तरम् ॥   १५-१०७ ॥
प्रत्येकमर्च्चयेत् तानि प्रशान्तायेतिमन्त्रतः ।  
गन्धैरोषधिभिश्चैव सप्तमावरणं श्रुणु ॥   १५-१०८ ॥
उशीरञ्चन्दनञ्चैव कर्पूरञ्जातिरेव च ।  
शङ्खपुष्पञ्च श्रीदेवी विष्णुक्रान्तीशतावरी ॥   १५-१०९ ॥
गन्धांश्चाष्टौ च धातूंश्च षष्ट्युत्तरषडेव च ।  
तावत् सङ्ख्या तु विज्ञेया ह्युप स्नानविशेषतः ॥   १५-११० ॥
द्वात्रिंशदुत्तरं प्रोक्तं शतमेकं समासतः ।  
ओषधीनां लतानाञ्च वृक्षाणाञ्च समासतः ॥   १५-१११ ॥
फलानां कुसुमानाञ्च मूलादीनां समाहरेत् ।  
सप्तमावरणं प्रोक्तमष्टमावरणं श्रुणु ॥   १५-११२ ॥ प्. ८४)
दर्भाधोनागदन्ताग्रे वराहस्य  च कर्षणे ।
वल्मीके वृषशृंगाग्रे नद्यां वै पर्वतेऽपि च ॥   १५-११३ ॥
समुद्रे चैव मेधावी मृदं ग्राह्य विशोधयेत् ।  
प्रत्येकं कलशेष्वेवं सप्ततिः परिसङ्ख्यया ॥   १५-११४ ॥
उदकेन समापूर्य तत् सङ्ख्या चान्तरोदकम् ।  
चत्वारिंशत् समायुक्तं शतमेकं प्रकीर्तितम् ॥   १५-११५ ॥
अर्चयेत् पार्थिवार्णेन नवमावरणं श्रुणु ।  
आम्रोZथपनसश्चैव न्यग्रोधोदुंबरस्तथा ॥   १५-११६ ॥
अश्वत्थञ्च शिरीषञ्च मधुकोथपलाशकः ।  
अष्टवृक्षत्व चश्चूर्णं विन्यसेद् वारिणासह ॥   १५-११७ ॥
प्रत्येकं पूरयित्वा तु सप्ततिश्चतुरुत्तरम् ।  
तावत् सङ्ख्या भवेत् तानि उपस्नानोदकानि च ॥   १५-११८ ॥
चत्वारिंशत् तथा चाष्टौ शतैकेन समायुतम् ।  
अर्चयेच्छिखयाधीमान् गन्धपुष्पादिभिः क्रमात् ॥   १५-११९ ॥
दशमावरणे प्रोक्तं पुष्पाणि च ततः श्रुणु ।  
पङ्कजांश्च पलाशांश्च नन्द्यावर्तांश्च मल्लिकाः ॥   १५-१२० ॥
करवीरञ्चंपकञ्च नीलोत्प्ललं तथाष्टकम् ।  
कलशेषु विनिक्षिप्य सप्तत्यष्टाधिक स्मृताः ॥   १५-१२१ ॥
पुष्पाणि कलशेष्वेव निक्षिप्याद्भिः प्रपूर्य च ।  
तावत् सङ्ख्या भवेत् तानि उपस्नानानि विन्यसेत् ॥   १५-१२२ ॥
एवं दशावृतान् स्थाप्य गन्धपुष्पाक्षतैर्युतम् ।  
प्रत्येकं कलशान् सर्वान्वस्त्रैरावेष्ट्य यत्नतः ॥   १५-१२३ ॥
द्रव्येषु शतरुद्रांश्च अप्सुतीर्थानि कल्पयेत् ।  
नवधा स्थापनं प्रोक्तं तत्र मुद्रां प्रदर्शयेत् ॥   १५-१२४ ॥
आद्यन्ते च नमस्कारां मध्ये बीजांमनोराम् ।  
एवन्तु स्थापयेद् विद्वानासनावाहनादिकम् ॥   १५-१२५ ॥
कृत्वा प्रागुक्तवद्धिमानभिषेकं समाचरेत् ।  
पुण्याहन्तु विशेषेण कृत्वा कुम्भान् प्रपूजयेत् ॥   १५-१२६ ॥
शैवन्तत्र विधानज्ञमादिशैव कुलोद्भवम् ।  
एकन्तत्र विधानज्ञमाचार्यं पूजयेत् क्रमात् ॥   १५-१२७ ॥ प्. ८५)
वस्त्रैराभरणैः पुष्पैरङ्गुलीयकयज्ञकैः ।  
शिवकुम्भं समुत्थाप्य हस्तेन शिरसाथवा ॥   १५-१२८ ॥
संवाह्य गर्भगेहन्तु उत्तराभिमुखस्थितः ।  
स्थापयेद् देवदेवेशं मूलमन्त्रेणमन्त्रवित् ॥   १५-१२९ ॥
गणांबिकेन मन्त्रेण वर्धन्या स्थाप्यपिण्डिकाः ।  
तत् तत् स्थाने पुनस्थाप्य पूर्ववच्च यथा क्रमम् ॥   १५-१३० ॥
स्नाप्यद्रव्यं यथा न्यायमुत्थानञ्च तथैव च ।  
स्थापिते नैव मन्त्रेण स्नापयेत् तु सदाशिवम् ॥   १५-१३१ ॥
कलशं वामहस्ते तु विन्यस्त्वा दक्षिणेन तु ।  
गोशृंगाग्र प्रमाणेन संस्थाप्यच्छिन्नधारया ॥   १५-१३२ ॥
स्थापितान्युपयुक्तानि कलशानिविसर्जयेत् ।  
स्नपनानाञ्च सर्वेषामन्तेहारिद्र चूर्णकैः ॥   १५-१३३ ॥
संस्नाप्याभ्यर्चयेद् विद्वान् प्रभूतहविषं कुरु ।  
बीजानामप्यलाभे तु निवारं वा यवन्तु वा ॥   १५-१३४ ॥
लोहानामप्यलाभे तु निक्षिपेत् तप्तकाञ्चनम् ।  
रत्नानामप्यलाभे तु मौत्तिकं ग्राह्य देशिकः ॥   १५-१३५ ॥
धातूनामप्यलाभे तु हरितालं विशेषतः ।  
पुष्पाणामप्यलाभे तु पद्मसङ्ग्राह्य देशिकः ॥   १५-१३६ ॥
एवं यः कुरुते मर्त्यः भक्तियुक्तस्तथैव च ।  
शशिवत् क्रीडते नित्यं शिवलोकेमहीयते ॥   १५-१३७ ॥
स्वेच्छयैव समागत्य पृथिव्यामेकराट् भवेत् ।  
नवधा स्नपनं प्रोक्तं शीतकुम्भविधिं श्रुणु ॥   १५-१३८ ॥

इति स्नपनविधि पटलः पञ्चदशः ॥   १५ ॥

No comments:

Post a Comment