Sunday, January 6, 2019

अर्चनाङ्ग पटलः


अथ अर्चनाङ्ग पटलः
अथातः संप्रवक्ष्यामि अर्चनाङ्गसमुच्चयम् ।  
पाद्यमाचमनञ्चार्घ्यं गन्धपुष्पञ्चधूपकम् ॥   ७-१ ॥
दीपञ्चैव निवेद्यञ्च लिङ्गनृत्तं दशैव तु ।  
दशाङ्गैस्तु समायुक्ता पूजाश्रेष्ठा शिवस्य तु ॥   ७-२ ॥
दीपान्तमर्चनं प्रोक्तं नैवेद्यान्तन्तु पूजनम् ।  
शान्तिकं बलिनृत्तान्तं पूजात्रिविधमुच्यते ॥   ७-३ ॥ ***
उशिरञ्चन्दनं दूर्वा सिद्धार्थकसमन्वितम् ।  
चतुरङ्गसमायुक्तं पाद्य द्रव्यमुदाहृदम् ॥   ७-४ ॥
एलालवङ्गकर्पूरत्र पूजाति फलैर्युतम् ।  
आचमनन्तु पञ्चाङ्गं द्रव्यैरेतैः प्रसिद्ध्यति ॥   ७-५ ॥
आपः क्षीरकुशाग्राणि यवसिद्धार्थतण्डुलैः ।  
तिलैर्वीही समायुक्तमर्घ्यमष्टाङ्गमुच्यते ॥   ७-६ ॥
यवतण्डुलसिद्धार्थर्व्रीहिभिश्चाक्षतं विदुः ।  
व्रीहितण्डुलसंयुक्तमक्षतन्तु प्रकीर्तितम् ॥   ७-७ ॥
अगरुञ्चन्दनञ्चैव कोष्ठं कुंकुममेव च ।  
सममर्धं पादमेवा कर्पूरेणसमायुतम् ॥   ७-८ ॥
गन्धद्रव्यमिदं प्रोक्तं पुष्पान् सम्यगतः श्रुणु ।  
श्वेत कृष्णं तथा रक्तं सात्विकादिगुणत्रयम् ॥   ७-९ ॥ ***
पुष्पाणि पीतवर्णानि सत्वराजसमिश्रितान् ।  
कृष्णां निलोत्पलादन्यान्तामसान् परिवर्जयेत् ॥   ७-१० ॥ ***
नन्द्यावर्तन्तु पूर्वाह्णे मधाह्णे करवीरकम् ।  
साये तु मल्लिका प्रोक्ता ह्यर्धरात्रौ द्विकर्णिका ॥   ७-११ ॥
द्रोणञ्च श्वेतपद्मञ्च जाती च बहुकर्णिका ।  
नन्द्यावर्तं श्रियावर्तं मन्दारं शतपत्रिकम् ॥   ७-१२ ॥
श्वेतार्कमालती चैव पुन्नागं कुरवन्तथा ।  
एवमादीनि पुष्पाणि सात्विकानि समादिशेत् ॥   ७-१३ ॥
रक्तोत्पलं तथा पद्मं ब्रहतीधुर्धूरकं तथा ।  
पाटलीरक्तपुष्पाणि राजसानि विनिर्दिशेत् ॥   ७-१४ ॥ प्. ३२)
कर्णिकारञ्च धुर्तूरसरलारग्वधौ तथा ।  
एवमादीनि पीतानिमिश्रकाणि विनिर्देशेत् ॥   ७-१५ ॥
करञ्जवकुलञ्चैव शिरीषं केतकी तथा ।  
लाङ्गली च विहीतञ्च बन्धूकञ्चैव डाडिमी ॥   ७-१६ ॥
किंशुकञ्च मदन्ती च कुमुदानि च वर्जयेत् ।  
अतिपक्वमपक्वञ्च मुकुलैर्नार्चयेद् धरम् ॥   ७-१७ ॥
केशकीटापविद्धानि लूतसूत्राव्रतानि च ।  
स्वयं पतितपुष्पाणि पर्युषितानि वर्जयेत् ॥   ७-१८ ॥
शमिबिल्वमपामार्गं कुशदूर्वा सहा तथा ।  
नागनन्दी रुद्रपर्णीधातकी पत्रमेव च ॥   ७-१९ ॥
भद्री चैव महाभद्री द्रोणपत्रं तथैव च ।  
उग्रगन्धैस्तु निर्गन्धैन्नार्चयेत् तु विशेषतः ॥   ७-२० ॥
पत्र जातिषु सर्वेषु बिल्वपत्रं प्रशस्यते ।  
तथैव पुष्पजातीनां पद्मपुष्पमुदाहृतम् ॥   ७-२१ ॥
उत्सवादिषु यात्रायां परिवेष क्रियासु च ।  
सकलानामलङ्कारे वर्ज्या ग्राह्याप्रकीर्तिताः ॥   ७-२२ ॥
एवं पुष्पाणि चोक्तानि धूपन्तु संप्रवक्ष्यते ।  
कृष्णागरुर्भवेदेव कार्यस्सद्विगुणं भवेत् ॥   ७-२३ ॥
त्रिगुणञ्चन्दनं प्रोक्तमीषत् कर्पूरमिश्रितम् ।  
शीतारिनामधूपोयं मधुनां पावितं भवेत् ॥   ७-२४ ॥
एवं धूपं परं श्रेष्ठं उत्तमन्तद्विशिष्यते ।  
गुल्गुलुं वा घृतं वापि गुलं वा बिल्वधूपकम् ॥   ७-२५ ॥
कुष्ठं वा चन्दनं वापि घृतमश्रं सुधूपयेत् ।  
गोघृतं वाथतैलं वा कर्पूरं वर्तिसंयुतम् ॥   ७-२६ ॥
चतुस्त्रयंगुलायाम दीपज्वालाविशिष्यते ।  
दीप प्रियो हि भगवान् देवदेवस्सदाशिवः ॥   ७-२७ ॥
अर्चनाङ्गविधि प्रोक्ता त्वर्चनायाविधिं श्रुणु ।  

इति अर्चनाङ्गस्सप्तमः पटलः ॥   ७ ॥

No comments:

Post a Comment